Skip to content
New issue

Have a question about this project? Sign up for a free GitHub account to open an issue and contact its maintainers and the community.

By clicking “Sign up for GitHub”, you agree to our terms of service and privacy statement. We’ll occasionally send you account related emails.

Already on GitHub? Sign in to your account

वृद्धिरादैच् १।१।१।। #93

Open
Krishnadas-c opened this issue Jul 22, 2022 · 0 comments
Open

वृद्धिरादैच् १।१।१।। #93

Krishnadas-c opened this issue Jul 22, 2022 · 0 comments

Comments

@Krishnadas-c
Copy link

कुत्वं कस्मादिति। अनेकशक्तेः शब्दस्य शक्त्यवच्छेदेन संज्ञिनि विनियोगान्नित्यत्वाच्च सर्वसंज्ञानां लौकिकत्वादादैच्छब्दस्यानुकरणशब्दत्वाज्जातिशब्दत्वाद्वा शास्त्रप्राप्तिरस्तीति प्रश्नः। तत्र कुशब्दः पञ्चसु वर्णेष्वासक्तरूपो वाचकत्वेन विनियुक्त इति शब्दस्वरूपे प्रवृत्तिनिमित्ते भावप्रत्ययः। छन्दोवदिति। न वैशेषिकादिसूत्राणि, अपि त्वङ्गत्वाद्व्याकरणसूत्राण्येव। इष्टिश्चेयम्-छन्दोवत् इति। किं पुनरिति। उभयथा शास्त्रे दर्शनात्पक्षद्वयेऽपि दोषसंभवात्प्रश्नः।। उत्तरपदस्येत्येवमिति। तत्र हि वृद्धौ सर्वे च इत्यप्युच्यमाने वृद्धमात्रस्योत्तरपदस्याभावात्सामर्थ्याद्वृद्धिमदुत्तरपदं ग्रहीष्यत इत्यतिरिच्यमानमुत्तरपदग्रहणं सामर्थ्यादुत्तरपदाधिकारमवगमयति। वृद्धेर्निमित्तं यस्मिन्निति। निमित्तशब्दोपादानसामर्थ्याद्व्यधिकरणपदो बहुव्रीहीराश्रीयते। अन्यथा वृद्धेस्तद्धितस्य इत्येवं ब्रूयात्। वृद्धिनिमित्तत्वाच्च तद्धित एव वृद्धिशब्देनाभिधायिष्यते। अथवा वृद्धेः संबन्धी यस्ततद्धित इति वैयधिकरण्येन संबन्ध आश्रयिष्यते।। योऽसौ ककार इति। कणञेषु सत्सु वृद्धिर्भवति तेषामेव निमित्तत्वम्। अथवेति। निमित्तशब्दोपादानादेवाश्रितबहुत्वसंख्यो वृद्धिशब्दः समस्यते, वृद्धीनां निमित्तं-वृद्धिनिमित्तमिति।। संज्ञाधिकारः- इति वार्तिकम् । तस्य व्याख्यानं- अथ संज्ञेत्येवमिति। अथ शब्दः संज्ञायाः प्रस्तावद्योतनार्थः।। वृद्धादीनामिति। संप्रत्ययः इत्येतदपेक्षया कर्मणि षष्ठी।। वृद्धादयः संज्ञात्वेन यथा प्रतीयेरन्नित्यर्थः।।
यथा लोके इति। कात्यायनेनासंप्रत्यये लोको दृष्टान्तत्वेनोपात्तः। भाष्यकारस्तु वाक्याध्यहारेणानर्थकत्वे लोकं दृष्टान्तत्वेन योजयति- बहुसूत्रमिति। बहुव्रीहिः, प्रकरणं चान्यपदार्थः। समाहारे द्विगुर्वा।। अर्थवन्ति चेति। यथा लोकोऽर्थवन्ति प्रयुङ्क्ते, एवमनर्थकान्यपीत्यर्थः। यावच्चाप्तत्वमाचार्य न सहितं तावदनर्थकत्वशङ्का, झटिति समन्वयानवगमाद्वा। दश दाडिमानीति। पदारेथानां समन्वयाभावादन्ननर्थकत्वम्।। आचार्याचारादिति। आचार्याणां व्यवहारादित्यर्थः।।वृद्धिशब्दः संज्ञेति। वृद्धिशब्दस्य प्रत्यायनशक्तिर्व्याख्यानेनैव प्रकाश्यते। यथा-आदैचां वर्णानामिति वर्णत्वम्।। अपर इति। प्रदेशाद्वा संज्ञासंज्ञ्यभिव्यक्तिः। संज्ञासूत्रार्थाद्वा प्रदेशार्थस्य व्यवस्थेत्यर्थः। अनाकृतिरिति। आकृत्या साहचर्याद्भेदो लक्ष्यते। तेनायमर्थः- वृद्धिशब्द एकत्वातसंज्ञा, आदैचां बहुत्वातसंज्ञीत्वम्। लाघवार्थं संज्ञाकरणम्। यथा- सर्वादीनि सर्वनामानि इत्यनेकस्यैका संज्ञा क्रियते। न त्वेकस्यानेका प्रयोजनाभावात्।। आकृतिमि इति। अवस्थाभेदेष्वपि स एवायमिति प्रत्यभिज्ञानिमित्तकं देवदत्तत्वादिकं सामान्यमस्तीति आकृतिमतः इत्युक्तम्।। लिङ्गेन वेति। कलादिना वर्णदोषेणेत्यर्थः।। तमेवोपालभ्येति। यो हि सूत्रकारमुपालभते-अगमकं ते सूत्रं इति, स कथं वृत्तिकारान् प्रामाण्येनाश्रयतीत्यर्थः।। अपरितुष्यन्निति। त्वयाऽपि परिहारान्तरं ब्रुवताऽऽचारो न प्रमाणत्वेनाश्रित इत्यर्थः।। तच्चापीति। लिङ्गेन वा इत्येतद्वक्तव्यमित्यर्थः। अनाकृतिः संज्ञा इत्येतत्तु न्यायसिद्धत्वान्न वक्तव्यम्।। अथ वैतर्हीति। एवं सतीत्यर्थः। ङकारादिष्वनुबन्धेषु कलादिमासङ्क्ष्यते। ततश्च तेषां संज्ञात्वे सति ङादात्मनेपदं इति करिष्यते। संज्ञा च संज्ञिनं प्रत्याय्य स्वयं निवर्तत इतीत्संज्ञा लोपश्च न वक्तव्यौ भवत इत्यर्थः।। प्रमाणभूत इति। प्रामाण्यं प्राप्त इत्यर्थः। भू प्राप्तौ इत्यस्य आधृषाद्वा इति णिजभावपक्षे रूपम्। वृत्तिविषये च प्रमाणशब्दः प्रामाण्ये इति। दर्भपवित्रेति। प्रमादाभावं दर्शयति। प्राङ्मुख इति। प्राच्या अभ्युदयहेतुत्वात्।। महतेति। मनःप्रणिधानं दर्शयति। एतच्च सर्वभागमाद्बोद्धव्यम्। एवमानर्थक्ये परिहृते संज्ञासंप्रत्ययाय पक्षान्तराणि प्रश्नमुखेन प्रतिक्षिपत्-किमत इति।। कृतमनयोरिति। आदैच्छब्दस्य द्वन्द्वत्वात् अनयोः इति द्विवचननिर्देशः।। आदैच इति। तेषां च द्वन्द्वनिर्देशोऽयमादैच्छब्द इत्यर्थः।। प्रयोगनियमार्थमिति। आदैज्वृद्धिः इति प्रयोगो मा भूदित्यर्थः।।
नेहेति। प्रयुज्यते-इति प्रयोगः। तस्य स्वतन्त्रस्य पदस्य प्रयुज्यमानस्य नियमो नारभ्यते, अपि तु पदावयवस्य प्रकृतिप्रत्ययोपसर्जनागमादिरूपस्य। लोके च केवल एव वृद्धिशब्दः प्रयुज्यत इति न तस्यानेन नियमः क्रियते, लोके प्रयुक्तानां हीदमनुशासनम्।। षष्ठीनिर्दिष्टस्येति। स्थानशब्दोऽर्थवाची, तिष्ठन्त्यस्मिञ्शब्दा इति स्थानम्। न च वृद्धिशब्दार्थमादैचो वक्तुं शक्ताः, तेनात्र षष्ठ्यर्थाभावादिति तात्पर्यम्। तथाहि षष्ठ्यभावेऽपि तदर्थसद्भावाद्भवत्येव स्थान्यादेशभावः। यथा-नाभि नभं च परस्त्री परशुं च इति।। आगमा अपीति। अत्राप्यर्थोऽपेक्ष्यते। अनागमकानामर्थे सागमका इत्यर्थः। लिङ्गेन चेति। देशविशेषप्रतिपत्तये टकारादिलिङ्गं तत्र क्रियत इत्यर्थः।। इदं खल्वपीति। विशेषणविशेष्यभावनिराकरणेन संज्ञापक्षं स्थापयति।। देवदत्तः पचति इत्यस्ति सामानाधिकरण्यं न त्वेकविभक्तित्वम्, गौः-अश्वः इत्यस्त्येकविभक्तित्वं न तु सामानाधिकरण्यं-इत्युभयोरुपादानम्। संज्ञासंज्ञिनोरप्यस्ति विशेषणविशेष्यत्वं प्रसिद्ध्यप्रसिद्धिवशात्तु भेदेनोपादानम्। तत्तु सामानाधिकरण्यं शब्दयोरेव केचिदिच्छन्ति, द्वाभ्यां भिन्नप्रवृत्तिनिमित्ताभ्यामेकस्याधिकरणस्याभिधेयस्य प्रतिपादनाद्विशेषणविशेष्यार्थप्रतिपादनाच्च विशेषणविशेष्यत्वम्। अन्ये तु नीलमुत्पलमिति प्रवृत्तिनिमित्तयोर्जातिगुणयोरेकमधिकरणमाश्रय इति सामानाधिकरण्यं विशेषणविशेष्यभावं चार्थयोरेव मन्यन्ते।। न चादैच्छन्द इति। न ह्यस्य कश्चिल्लौकिकोऽर्थः प्रसिद्ध इत्यर्थः।। आवर्तिन्य इति। देवदत्तादिशब्दा हि दानादिप्रतिपादनायावर्त्त्यन्ते।। अथवेति। सत्यसति वा संज्ञिनि बुद्ध्या विषयीकृते शब्देन पूर्वनिर्दिष्टे संज्ञा प्रवर्तत इत्यर्थः।। ततश्च अदेङ्गुणः इत्यादावदेङादयः संज्ञिलो गुणादयः संज्ञाः।। इह तु मङ्गलार्थोऽन्यथा पाठक्रमः। आर्थस्त्वन्यथा क्रमः। अन्ये तु सिद्धिहेतवो भविष्यन्ति।। अपृक्त एकाल्प्रत्ययः इति तु परिभाषा, न संज्ञेति नास्ति व्यभिचारः। अपृक्तशब्देन ह्येकाकी कथ्यत इति अनियमेन ग्रहणे प्राप्ते नियमः क्रियते।।
अस्थान इति। अन्तरेणापि संज्ञाशब्दप्रयोगं लोकव्यवहारवदत्र संज्ञासंज्ञिसंबन्धः सिध्यतीत्यर्थः।। सतो वृद्ध्यादिष्विति। विधौ चायं दोषः, नानुवादे-वृद्धिर्यस्य- इत्यादौ। तत्र च संज्ञाविधानस्य चरितार्थत्वात् मृजेर्वृद्धिः इत्यादौ वृद्धिशब्द एवादेशः प्राप्नोति।। ननु च भो इति। नौशकटस्याभिमतदेशान्तरप्राप्तिरितरेतराश्रयेति चोद्यम्।। सामाग्र्यन्तरानुप्रवेशेनोत्तरम्।। सिद्धं त्विति। न हि मृजेर्वृद्धिरपूर्व आकारो भाव्यते किं तु मृजावुपदिष्टे मार्ष्टीत्यादीनामसाधुत्वबुद्धिः प्राप्नोतीति तेषां साधुत्वान्वाख्यानं क्रियते।। प्रत्यकमिति। यद्यपि नित्यशब्दत्वेनैतदपि व्यवतिष्ठते, तथापि न्यायव्युत्पादनायोपन्यासः।। समुदाये मा भूतामिति। अन्यथा मृजेर्वृद्धिः इत्यादौ समुदाय आदेशः प्राप्नोति। समुदायावयवसन्निधौ क्व तात्पर्यं कस्य च नान्तरीयकत्वमिति विचार्यते।। अन्यत्रेति। यत्रसाध्या समुदायप्रतिपत्रिरिति यत्राभावे न भवतीत्यर्थः।। ननु सहग्रहणं नियमार्थं स्यात्- समदायस्यैव समाससंज्ञा यथा स्यात्, नावयवानामिति। नैतदस्ति, उभयत्र तात्पर्याभावाद्युगपदुभयत्र प्रसङ्गाभावाल्लिङ्गत्वम्व सहग्रणस्यान्यत्र समुदाये तात्पर्यं नास्तीत्यस्यार्थस्य।। उभे अभ्यस्तं सहेति। अत्र सहग्रहणं वार्तिककारस्य कर्तव्यत्वेन स्थितम्। भाष्यकारस्तूभेग्रहणस्यैतत्प्रयोजनं स्थापयिष्यति।। प्रत्यवयवं चेति। अत्र वाक्यशब्देन वाक्यार्थफलमुच्यते। तच्च देवदत्तादीनां भोजनम्। तस्य चैतदेव रूपं यत्प्रत्येकपरिसमाप्त्या संपद्यते। अन्नादनादिरूपत्वात्तृप्तिफलत्वाच्च भोजनस्य। नाट्यक्रिया तु समुदाये समाप्यते, गीतादिक्रियासमुदायरूपत्वात्तस्याः। संयोगसंज्ञा त्वन्वर्थत्वात्समुदाये प्रवर्तते। वृद्धिसंज्ञा तु लक्ष्ये पृथगादैचां दर्शनात् मालादीनां च इति लिङ्च्च प्रत्येकमवतिष्ठते। गर्गाः इति। अत्र शतस्येप्सिततमत्वात् प्राधान्यम् , अपादानस्थानप्राप्ता गर्गा गुणकर्म, न च गुणभेदे प्रधानस्य भेदः इति शतदण्डनं समूहे परिसमाप्यते।। अर्थिनश्चेति। शतस्य प्राधान्यं प्रतिपाद्यते। दण्डपरायां चोदनायां शतस्य प्राधान्यमतो वाक्यादवगम्यते।। अथ तत्रान्तरेणेति। न्यायादन्वर्थत्वाच्च समाससंज्ञायाः समुदाये परिसमाप्तौ सिद्धायां योगविभागार्थं तत्र सहग्रहणं स्थितमिति तत्रान्तरेण इत्युक्तम्।। प्रदीपः
अथ किमर्थमिति। किमाकृतिपक्षे भिन्नकालनिवृत्त्यर्थम् , अथवा व्यक्तिपक्षे गुणान्तरयुक्तानां ग्रहणार्थमिति प्रश्नाः।। आकारस्येति। व्यक्तिः पदार्थो भेदकाश्च गुणा इति दर्शने यद्गुणस्यैवोच्चारणे तद्गुणस्यैव संज्ञाप्रसङ्गे गुणान्तरयुक्तानामपि संज्ञाप्रतित्त्यर्थं तपरत्वमित्यर्थः।। किं च कारणमिति। अभेदका गुणाः, मुण्डेन हि कृते चौर्ये कुन्तलित्वावस्थायामपि चौरोऽयमिति व्यपदिश्यत एवेति प्रश्नः।। भेदकत्वादिति। सर्वगुणसंग्रहार्थं गुणग्रहणं कर्तव्यमित्यर्थः।। एकोऽयमिति। उदकत्वजातियोगादत्रैकत्वं न विवक्षितं। किं तर्हि? विशिष्टभाजनस्थमेकमुदकद्रव्यम् , तदेव च गुणन्तरयोगादन्यत्वेन लोके व्यपदिश्यते।। उभयमिति। आम्नायशब्दा नियतस्वरा इति वेदे गुणानां भेदकत्वम्। लोके तूभयथा व्यवहारः-गोपिण्डो वत्साद्यवस्थाभेदात् क्रयविक्रयादिषु मूल्यादिभेदाद्भेदेन व्यवह्रियते, स एवायमिति प्रत्यभिज्ञानादभेदेनापि।। इति प्रश्नः-किं पुनरिति।। अत्रेति। शास्त्रे।। उदात्तमेवेति। तस्माद्गुणरहितस्योच्चारणाभावान्नान्तरीयकत्वादुच्चार्यमाणोऽपि गुणः प्रयत्नमन्तरेण न विवक्षित इत्यर्थः।। यद्येवं कथमन्यत्रोक्तं- उदात्तनिपातनं करिष्यते इति, यावता तत्राप्यविवक्षा प्राप्नोति। नैष दोषः; तत्रापि हि स्थानेऽन्तरतमः इति वचनादादेशस्य यः स्वरः प्राप्तस्तस्मिन्नुच्चारयितव्य उदात्तोच्चारणं प्रयत्नेन विवक्षार्थं विज्ञायते। एवमनुनासिकस्य प्रयत्नाधिक्येनोच्चारणं विवक्षार्थमेव, उञः ऊं इति यथा।। अन्ये त्वाहुः-एकश्रुत्या सूत्राणि पठ्यन्त इति क्वचिदुदात्तोच्चारणं तद्विवक्षार्थमिति।। अनुदात्तादेरिति। अजुपलक्षणार्थाऽनुदात्तश्रुतिः स्यादिति प्रश्नः।। उत्तरे त्वज्ग्रहणमेव कुर्यादित्यभिप्रायः।। व्याख्यानत इति। प्रस्थेऽवृद्धं इत्याद्युदात्तत्वे सिद्धे मालादीनां च इति मालाशब्दस्य वृद्धार्थत्वादुपादानस्याकारप्रश्लेषनिश्चय इत्यर्थः।।
इदं तर्हीति। ननु भाव्यमानत्वादादैचो ग्राहका न भविष्यन्ति। नैतदस्ति। न ह्यत्र संज्ञाविधावादैचो भाव्यन्ते। किन्तु ऐज्भिरण्त्वात्त्रिमात्रचतुर्मात्राणां ग्रहणात्संज्ञप्रसङ्गात् वृद्धिगुणविधौ तेषामपि प्रसङ्गात्तन्निषेधाय तपरत्वम्।। एवं स्थिते चोदयन्ति- यद्यैजर्थस्तकारस्तेनाकारस्य संबन्धाभावात् कथं आत् इत्येतत्पदमुच्यते। तात्पर्येणैजर्थत्वं तकारस्योच्यते, आनुषङ्गिकं त्वाकारार्थत्वं। ज्ञापकद्वारेण ह्याकारप्रश्लेषे विज्ञायमाने प्रतिपत्तिगौरवं भवति। सति तु तकार आकारस्वरूपप्रतिपत्तिः स्पष्टा भवतीति तकारसहितस्याकारस्यासंदिग्धानुकार्यप्रतिपादनार्थवत्त्वाद्विभक्त्युत्पत्तौ सत्यां आत् इत्येततापदं सिद्धम्।।1।।

Sign up for free to join this conversation on GitHub. Already have an account? Sign in to comment
Labels
None yet
Projects
None yet
Development

No branches or pull requests

1 participant